हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   Sanatana Dharm సనాతన ధర్మం
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Kishkindha Kanda Sarga 6 – किष्किन्धाकाण्ड षष्ठः सर्गः (६)


॥ भूषणप्रत्यभिज्ञानम् ॥

पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम् ।
अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः ॥ १ ॥

हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः ।
लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव ॥ २ ॥

रक्षसाऽपहृता भार्या मैथिली जनकात्मजा ।
त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता ॥ ३ ॥

अन्तरप्रेप्सुना तेन हत्वा गृध्रं जटायुषम् ।
भार्यावियोगजं दुःखमचिरात्त्वं विमोक्ष्यसे ॥ ४ ॥

अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ।
रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले ॥ ५ ॥

अहमानीय दास्यामि तव भार्यामरिन्दम ।
इदं तथ्यं मम वचस्त्वमवेहि च राघव ॥ ६ ॥

न शक्या सा जरयितुमपि सेन्द्रैः सुरासुरैः ।
तव भार्या महाबाहो भक्ष्यं विषकृतं यथा ॥ ७ ॥

त्यज शोकं महाबाहो तां कान्तामानयामि ते ।
अनुमानात्तु जानामि मैथिली सा न संशयः ॥ ८ ॥

ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ।
क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ॥ ९ ॥

स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ।
आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् ॥ १० ॥

उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ।
तान्यस्माभिर्गृहीतानि निहितानि च राघव ॥ ११ ॥

आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ।
तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम् ॥ १२ ॥

आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ।
एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् ॥ १३ ॥

प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ।
उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ॥ १४ ॥

इदं पश्येति रामाय दर्शयामास वानरः ।
ततो गृहीत्वा तद्वासः शुभान्याभरणानि च ॥ १५ ॥

अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ।
सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः ॥ १६ ॥

हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ ।
हृदि कृत्वा तु बहुशस्तमलङ्कारमुत्तमम् ॥ १७ ॥

निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ।
अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः ॥ १८ ॥

परिदेवयितुं दीनं रामः समुपचक्रमे ।
पश्य लक्ष्मण वैदेह्या सन्त्यक्तं ह्रियमाणया ॥ १९ ॥

उत्तरीयमिदं भूमौ शरीराद्भूषणानि च ।
शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया ॥ २० ॥

उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते ।
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ॥ २१ ॥

नाहं जानामि केयूरे नाहं जानामि कुण्डले ।
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥ २२ ॥

ततः स राघवो दीनः सुग्रीवमिदमब्रवीत् ।
ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया ॥ २३ ॥

रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ।
क्व वा वसति तद्रक्षो महद्व्यसनदं मम ॥ २४ ॥

यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ।
हरता मैथिलीं येन मां च रोषयता भृशम् ।
आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम् ॥ २५ ॥

मम दयिततरा हृता वनान्ता-
-द्रजनिचरेण विमथ्य येन सा ।
कथय मम रिपुं त्वमद्य वै
प्लवगपते यमसन्निधिं नयामि ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्ठः सर्गः ॥ ६ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.